|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.240. अध्यायः 240
Mahabharata - Adi Parva - Chapter Topics
द्वारकाया उपवने वसतः यतिरूपस्यार्जुतस्य रैवतकपर्वतात्प्रतिनिवृत्तैर्यादवैर्दर्शनम्॥ 1 ॥
यतिनिवासविषये यादवै पृष्टे सुभद्रागृहे वसत्विति रामोक्तिः॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-240-0x(1289)(10342)
चैराः संचारिते तस्मिन्ननुज्ञाते युधिष्ठिरे।
वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम्॥ 1-240-1(10343)
कृष्णस्य मतमास्थाय प्रययौ भरतर्षभः।
द्वारकाया उपवने तस्थौ वै कार्यसाधनः॥ 1-240-2(10344)
निवृत्ते ह्युत्सवे तस्मिन्गिरौ रैवतके तदा।
वृष्णयोऽप्यगमन्सर्वे पुरीं द्वारवतीमनु॥ 1-240-3(10345)
चिन्तयानस्ततो भद्रामुपविष्टः शिलातले।
रमणीये वनोद्देशे बहुपादपसंवृते॥ 1-240-4(10346)
सालतालाश्वकर्णैश्च बकुलैरर्जुनैस्तथा।
चम्पकाशोकपुन्नागैः केतकैः पाटलैस्तथा॥ 1-240-5(10347)
कर्णिकारैरशोकैश्च अङ्कोलैरतिमुक्तकैः।
एवमादिभिरन्यैश्च संवृते स शिलातले॥ 1-240-6(10348)
पुनःपुनश्चिन्तयानः सुभद्रां भद्रभाषिणीम्।
यदृच्छया चोपपन्नान्वृष्णिवीरान्ददर्श सः॥ 1-240-7(10349)
बलदेवं च हार्दिक्यं साम्बं सारणमेव च।
प्रद्युम्नं च गदं चैव चारुदेष्णं विदूरथम्॥ 1-240-8(10350)
भानुं च हरितं चैव विपृथुं पृथुमेव च।
तथान्यांश्च बहून्पश्यन्हृदि शोकमधारयत्॥ 1-240-9(10351)
ततस्ते सहिताः सर्वे यतिं दृष्ट्वा समुत्सुकाः।
वृष्णयो विनयोपेताः परिवार्योपतस्थिरे॥ 1-240-10(10352)
ततोऽर्जुनः प्रीतमनाः स्वागतं व्याजहार सः।
आस्यतामास्यतां सर्वै रमणीये शिलातले॥ 1-240-11(10353)
इत्येवमुक्ता यतिना प्रीतास्ते यादवर्षभाः।
उपोपविविशुः सर्वे ते स्वागतमिति ब्रुवन्॥ 1-240-12(10354)
परितः सन्निविष्टेषु वृष्णिवीरेषु पाण्डवः।
आकारं गूहमानस्तु कुशलप्रश्नमब्रवीत्॥ 1-240-13(10355)
सर्वत्र कुशलं चोक्त्वा बलदेवोऽब्रवीदिदम्।
प्रसादं कुरु मे विप्र कुतस्त्वं चागतो ह्यसि॥ 1-240-14(10356)
त्वया दृष्टानि पुण्यानि वद त्वं वदतांवर।
पर्वतांश्चैव तीर्थानि वनान्यायतनानि च॥ 1-240-15(10357)
वैशम्पायन उवाच। 1-240-16x(1290)
तीर्थानां दर्शनं चैव पर्वतानां च भारत।
आपगानां वनानां च कथयामास ताः कथाः॥ 1-240-16(10358)
श्रुत्वा धर्मकथाः पुण्या वृष्णिवीरा मुदान्विताः।
अपूजयंस्तदा भिक्षुं कथान्ते जनमेजय॥ 1-240-17(10359)
ततस्तु यादवाः सर्वे मन्त्रयन्ति स्म भारत।
अयं देशातिथिः श्रीमान्यतिलिङ्गधरो द्विजः॥ 1-240-18(10360)
आवासं कमुपाश्रित्य वसेत निरुपद्रवः।
इत्येवं प्रब्रुवन्तस्तु रौहिणेयं च यादवाः॥ 1-240-19(10361)
ददृशुः कृष्णमायान्तं सर्वे यादवनन्दनम्।
एहि केशव तातेति रौहिणेयो वचोऽब्रवीत्॥ 1-240-20(10362)
यतिलिङ्गधरो विद्वान्देशातिथिरयं द्विजः।
वर्षमासनिवासार्थमागतो नः पुरं प्रति।
स्थाने यस्मिन्निवसतु तन्मे ब्रूहि जनार्दन॥ 1-240-21(10363)
श्रीकृष्ण उवाच। 1-240-22x(1291)
त्वयि स्थिते महाभाग परवानस्मि धर्मतः।
स्वयं तु रुचिरे स्थाने वासयेर्यदुनन्दन॥ 1-240-22(10364)
प्रीतः स तेन वाक्येन परिष्वज्य जनार्दनम्।
बलदेवोऽब्रवीद्वाक्यं चिन्तयित्वा महाबलः॥ 1-240-23(10365)
आरामे तु वसेद्धीमांश्चतुरो वर्षमासकान्।
कन्यागृहे सुभद्राया भुक्त्वा भोजनमिच्छया॥ 1-240-24(10366)
लतागृहेषु वसतामिति मे धीयते मतिः।
लब्धानुज्ञास्त्वया तात मन्यन्ते सर्वयादवाः॥ 1-240-25(10367)
श्रीकृष्ण उवाच। 1-240-26x(1292)
बलवान्दर्शनीयश्च वाग्मी श्रीमान्बहुश्रुतः।
कन्यापुरसमीपे तु न युक्तमिति मे मतिः॥ 1-240-26(10368)
गुरुः शास्ता च नेता च शास्त्रज्ञो धर्मवित्तमः।
त्वयोक्तं न विरुध्येहं करिष्यामि वचस्तव॥ 1-240-27(10369)
शुभाशुभस्य विज्ञाता नान्योऽस्मि भुवि कश्चन॥ 1-240-28(10370)
बलदेव उवाच। 1-240-29x(1293)
अयं देशातिथिः श्रीमान्सर्वधर्मभृतां वरः।
धृतिमान्विनयोपेतः सत्यबादी जितेन्द्रियः॥ 1-240-29(10371)
यतिलिङ्गधरो ह्येष को विजानाति मानसम्।
त्वमिमं पुण्डरीकाक्ष नीत्वा कन्यापुरं शुभम्॥ 1-240-30(10372)
निवेदय सुभद्रायै मद्वाक्यपरिचोदितः।
भक्ष्यैर्भोज्यैश्च पानैश्च अन्नैरिष्टैश्च पूजय॥ ॥ 1-240-31(10373)
इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि चत्वारिंशदधिकद्विशततमोऽध्यायः॥ 240 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|